Wednesday, December 29, 2021

bam bam

 

शिवस्य मूलानि आदिवासीनि पुरस्वैदिकानि सन्ति
तस्य रूपम्  वयमिव अद्य जानीमः इदं अवैदिकदेवानां वैदिकदेवानां च धातुमिश्रणम् अस्ति उपादाय रुद्रः मरुत् यःअपि अवैदिकमूलात् भवेत् सर्वे एकप्रधानदेवे अन्तर् सन्ति महादेवः इति ||



The Giant

 

इतरद् आमेरिकदेशे  स्वामी उक्तवान्
भारतीयजनाःपश्चिधर्मं न इच्छन्ति भारतस्य पर्याप्तधर्माःसन्ति |
तस्याःअन्नं न अस्ति ख्रिस्टीयजनान् न प्रेषतु अन्नं प्रेषतु इति ||






Zingiber officinale

 Zingiber officinale इति आर्द्रकम् पुष्पी वृक्षकः अस्ति

यस्य मूलानि पाके औषधविज्ञाने च  उपयुज्यन्ते
वृक्षकः अपि हरिद्रावृक्षकस्य जातिःअस्ति



अस्थि Osteo

अस्थिग्लानिः दुर्बलानि भिदुराणि च भवितुम् अस्थीनि कारयति | अस्थीनि अतीवभिदुराणि भवेयुः येन यदि कश्चित् पतति एवमेव वा  सः मृद्वायासं करोति उत्कासनम् अवनामःइत्यादिम् | सःमृद्वायासः भेदनं कारयेत् | अस्थिग्लानेः एतानि भेदनानि मेरुदण्डे पाणिमूले कट्यां वा सामान्यतस् प्रभवन्ति | अस्थीनि जीवोतयः सन्ति यद् नित्यम् तानि भग्नानि सन्ति तानि च प्रतिसमादधान्ति ||



Pone

 

Cassava Pone पाककृतिः
अनिर्माल्यामूलस्य ५चषकाः
कुष्माण्डस्य चषकः
किरेःचषकः
नारिकेलस्य च ३चषकाःइति सर्वे घर्षन्ति

संघनितक्षीरस्य चषकः
कपिशार्करस्य एकःसार्धःच चषकः | यदि मधुः इच्छसि |
मसृणितस्य नवनीतस्य घृतस्य वा अर्धचषकः
नारिकेलक्षीरस्य दुग्धस्य वा अर्धचषकः

चोचचूर्णस्य लघुदर्वी
जातिकोशचूर्णस्य लघुदर्वी
लवंगचूर्णस्य लघुदर्वी
घृष्टस्य आर्द्रकस्य लघुदर्व्यौ
केचन वा अन्ये उपस्कराः उपयुज्यन्ते इति इच्छसि
शुष्कद्राक्षायाःचषकःउपयुज्यते इति यदि अपि इच्छसि

सम्प्रति सर्वे अंशाःसंमिश्र्यन्ते मिश्रणं च  पचकपात्रे  स्थाप्यते
तर्हि इदं  ३५०मात्रासु पाद्यहोरायै होरायै च पचते ||




Starlight

 हे श्रीसवितःखगः सर्वदेवपूर्वपूजितादिम

अन्धकारनाशयितः शुचे जीवलोकदीपक 


दिनकर्तःवेदरामदूतशिक्षित भानो सर्वस्नेहित

रविपित्र छायागृह प्रतिप्रभातमेव अर्घ्यमर्हति 

नमो भवतु तुभ्यम् ||


|| ॐ श्रीसूर्याय नमोनमः || 



Wednesday, December 1, 2021

Belly Full

 

युवशा अरुणछाया इन्दुवर्तुलमुखा
त्रिलोचना ऊर्ध्वस्तना चतुष्पाणिःच
सा पोषका सम्पत्तिं तद्ददाति

अधरवामकरस्वाद्वोदनपूर्णपत्रा
रत्नसुवर्णदर्वीधरदक्षिणकरा
सा पोषका सम्पत्तिं तद्ददाति

अभयवरदरूपमुद्राकरान्ययुग्मा
बहुरत्नसुवेषा पीठासिता सोमकिरीटा
सा पोषका सम्पत्तिं तद्ददाति

जय अन्नपूर्णे

She who is youthful whose complexion is reddish brown in color whose face is round like the Moon, who is three eyed, high breasted and who has four arms she who is the nourisher, gives this  world fulfillment.

Her vessel is filled with tasty porridge in the left lower hand, her right hand holds a golden spoon with jewels, she who is the nourisher, gives this  world fulfillment.

whose other pair of hands are in the Mudra form of fearlessness and the granter of favours( giver of boons) who is beautifully adorned with many jewels, who sits on a throne and whose crown is the Moon,she who is the nourisher, gives this  world fulfillment.

Hey Mother Annapurna you are the most pre-eminent.


Saturday, November 20, 2021

Red

 


आसुररक्तबीजः सर्वे पतितरक्तबिन्दवो नोsनर्थकेच्छाःसंदर्शयन्ति | सर्वे ये बिन्दवो भूतले पतन्ति नूतना इच्छा आसुरा वा उद्भवन्ति |  ता इच्छा मोक्षतो नो निवारयन्ति तथा देवी आसुरस्य रक्तम् अपिबत् इति स उक्तवान्

All the fallen blood drops of the demonical Raktabija represents our unnecessary desires. Every drop which falls on the ground a new desire or demons arise. Those desires prevent us from Liberation so the Goddess drinks the blood of the demon, the monk said .

Saturday, November 6, 2021

Trace

 भित्त्यां रक्तस्वस्तिकं 

स्वद्वारे श्रीगणपतिना

सह दृष्ट्वा त्वमधुना 

कालीमूर्त्याःसुरप्रतिष्ठां

कुरु इति सा उक्तवती




Sunday, September 26, 2021

On my word

 

कोsस्मि
कुत आत्मजः
कुत्र गम्यः 
हन्त नु किंप्रभवति

Who am I
from where I self originate
Where am I ought to go.
Now oh! Dam! What's happening.

मदीयकर्मणां फलानि
कानि भवन्तीति ज्ञायन्ते वा

What are the consequences of my
actions, are they known ?

इतिकर्तव्यता वा का
अजन्मनमरत्वे
लब्धुं उपयुज्यताम्

Or what methodology must be used to
obtain Immortality or birthlessness.

एते प्रश्नाःपुनर्पुनः
Thses questions again and again.




The Professor and P.M.

 

एकदा अस्माकं प्रथमप्रधानमन्त्री देशेतिहासविज्ञानः स्वगृहाय वङ्गीयप्राध्यापकेन अस्मदीयदेशविवासेन आहूत आसीत्  | अलंकृतायां गृहभित्त्यां वास्तविकं
रवीन्द्रनाथठाकुरवर्णनं मन्त्रिणा दृष्टम् |
अय्यो गुरुजी एतत् रवीन्द्रनाथठाकुरवर्णनम् एव अस्ति एतत् मे रोचते एतत् चारु आलिखितम् आसीत् कृपया भवतःलभेय इति मन्त्री अवक् | न न  नहि अन्यं तस्य वर्णनम् मया आलेखिष्यते तत् च एकं भवते दास्यते इति वङ्गीयपण्डितः प्रत्यवदत् | प्राध्यापकस्य आदरणीयपत्नी या अपि तत्र आसीत् अरे मधु कृपया साधुजनाय वर्णनं ददातु इदं तस्मै अतीवरोचते भवान् च अन्यम् आलिखयेत् इति उक्तवती | देवि भवतु इति प्रत्यवदत् | सश्च प्रधानमन्त्रिणे प्रसिद्धमहाकविवर्णनम् अददात् ||

Once our first Prime Minister whose knowledge was the history of the region, was invited by the Bengalese Professor, whose residence was in our country to his own home. On the decorative wall of the home a authentic painting of Rabindranath Tagore was seen by the Minister.
The Minister said," oh my goodness this is really a painting of Rabindranath Tagore, I like it,it was painted beautifully, please may I have it."
The Bengalese scholar replied," no no nah ! another painting of him will be painted by me and that one will be given to you."
The  respectable wife of the professor who was also there said,"hey! honey ! Please give the goodly gentleman the painting he really likes it and you could paint another."
"Oh Devi so be it," he replied and he gave the painting of the great renowned poet to the Prime Minister..



The King

 

कालसर्पः दक्षिण-प्राग्दक्षिणजाम्बुद्वीपकस्य अतीवविषालुपशुः
वर्तते | अयं विशेषणचिह्नैःमहाकारेण च अन्येभ्यःभुजंगेभ्यः संलक्ष्यः अस्ति | कालसर्पः २०पादान्पर्यन्तं दैर्घ्यैः लोके दीर्घतमःअधिकतमविषालुसर्पःअस्ति | असदृशाःअन्ये सर्पाः ये वर्तन्ते | अयं  मूषिकान् बिम्बान् च विरलं मार्गति | अयं अन्येषां जातानाम् अन्यान् सर्पान् मार्गति | अयं भारतस्य राष्ट्रिकसरीसृपः इव दृष्टः अस्ति | म्यन्मर्देशस्य श्रीलङ्कायाःभारतस्य च विश्जनेषु पुराणे च सर्पस्य एतत् जातं प्रधानस्थानं वर्तते |
म्यन्मर्देशे केचित् जनाः कज्जलस्य सर्पविषस्य च 
मिश्रणेन त्वचोत्किरणीकुर्वन्ति |
अयमपि  कुण्डलिनीशक्त्याः प्रतिरूपम् अस्ति
यःपार्वतीपतेः कण्ठं परिषीदति ||

The King cobra  is a very venomous creature of the south southeastern Asia. It is distinguishable from other cobras with great size and distinctive marks. The King cobra is most venomous, longest snake in the world with lengths up to 20 feet, unlike other snake which exist, it rarely hunts lizards and rodents, it hunts other snakes of other species. It is regarded as nation reptile of India . in mythology and folklore of Myanmar Sri Lanka and India  this species of snake has eminent position.in Myanmar some people do tattoos on the skin with a mixture of the snake's venom and ink and also it representation of the Kundalini power which sits around the neck of Shivaji.




Guru ji

 

अन्तर्गृहेsटित्वावदम् गुरुजी नमोनम इति
😭 स्वर्गगतोवैद्यःप्रत्यवदत्
कःसोsस्ति जेसन् स भवान् अस्ति वेति
अवदम् आमाम् जी जेसन् अत्रेति  |
अपृच्छत् आहो जेसन् भवान्  संस्कृतविद्यावारिध्युपाधिना
भारततश्चिरस्य प्रत्याच्छत् वेति  | अबन्धुरं प्रत्यवदम्
न भारतं नैव अगच्छमिति | अस्तु चिन्तामास्तु किन्तु भवान्
भाषाम् इतोsप्यध्येति वेति अपृच्छत् |
प्रत्यवदम् आं खालु अहं संस्कृतम् इतोsपि
पठामिति | अद्भुतं भवान् भाषां पठितुं भारतम् इतोsपि
गच्छेत् तर्हि भवान्  प्रत्यागत्य बहूनाम् शास्त्राणाम् एकेन  अवरतस् सह भाषां पाठयितुं विद्यालयं संस्थापयेदिति परंतु
अहमितोsपि मन्ये  ||

Having walked into the house I said,
"Salutations Guruji."
The Doctor who 😟 has gone to heaven replied, "who is that Jason that is you ?."
I said, "yea yea ji Jason here!"
"Aho Jason you've finally returned from India with the Sanskrit doctorate." He asked. "No I never went India,"I sadly replied. "Okay don't worry but you're still studying the language ? "Yes Indeed I'm still studying Sanskrit,"I replied. Fantastic but I still think you should go to India to study the language, then having returned you could establish a school to teach the language with at least one of the many Shastras.


The late Dr.Ramdath Ramkissoon.




Rain coming

 

मल्हार्रागो हिन्दुस्थानीयशास्त्रीयरागः
अयं प्रावृषं सहितोsस्ति ||
शृण्वन्तु

Malhar" is a Hindustani classical raga.It is associated with torrential rains.
Please listen

https://youtu.be/PyylVKICApI

Cheque please

 

भर्जिते पूरिके
चणकव्यञ्जनेन
नारिकेलोपसेचनेन
तिन्तिलीकोपसेचनेन 
उष्णमरिचरस्मेन
आम्रोपसेचनेन
धन्याकोपसेचनेन
उर्वारुणा च सह स्तः|
आङ्गलभाषया Doubles इति कथ्यते ||

Two fried flat breads along with curry chickpeas, coconut chutney, tamarind chutney, hot pepper,mango chutney, bandhania and cucumbers. In English it is call Doubles

इदं भोजनम् अस्माभिः चिन्त्यते
""अस्माकं राष्ट्रीयभोजनम् ""इति ||
किंतु सत्ये अस्माकं राष्ट्रीयभोजनं न वर्तते |
अय्यो तु  तत् भोजनम् अस्मभ्यम् नितान्तं रोचते
प्रातमध्याह्नरात्रिकालेषु इदम् अस्माभिः खाद्यते
🤣😂

This meal is considered by us, our national dish. However in reality we don't have a national dish but oh gad oye we really like that meal in the morning noon and night it is eaten by us.



Sir Natha

 

१९१८ - १९९६
पंडितप्राणनाथः
किरणगृहस्य गायनरीत्याःनिपुणः
भारतीयशास्त्रीयगायकःच आसीत् |
पारम्परिकरागाणां वर्धनःनाथः सुचेतनेषु आमेरिकनीयगायकेषु  प्रसरं यत्यः| सः आमेरिकादेशे१९७०-वर्षे कृत् आरभ्य  १९७२-वर्षे भारतीयशास्त्रीयसङ्गीताय केन्द्रं समस्थापयत् |
स आनूकम् आमेरिकदेशे यूरोपखण्डे च अनेकान् विश्वविद्यालयान् तिर्यक् पाठितवान् ||

1918- 1996
Pandita Praana Naatha was a Indian classical singer and master of the style of singing of the Kirana Ghrana. Naatha Promoting of  the traditional Raagas exerted a influence on notable American singed ,having began performing in the 1970 in the U.S. he established a center for Indian classical music in 1972. He subsequently taught across Universities in U.S. and in Europe.

मम मनसि स स्वरग्रामस्य मध्यममध्ये गायति स्म
न नितान्तम् उद्स्वराः न वा नितान्तम् नीचैस्स्वराः| सः चापिकाञ्चित् रागान्  केवलं गायति स्म यद् ते गायनस्य  तां रीतिम् अनुजानन्ति स्म  | यदि सःअद्य अभविष्यत्  तर्हि तेन पठितव्यःस्याम् ||

In my opinion he use to sing within in the middlemost of the three scales. No extremely high notes or no extremely low notes, and also he only use to sing certain Raags which allowed
that style of singing. If he was alive today  then I could have studied with him.



Prayer

 

अद्यतनस्य प्रार्थना
देवी मां संशोधयेत्
मां नयेत् मां च रक्षेत्

Stand Tall

 


लोहेषु स्वर्णं श्रेष्ठं
ग्रहेषु रविर्वरिष्ठकः |
शक्तिषु कामख्या
सर्वाभ्योऽन्याभ्यः
शक्तिभ्यःतिरस्
ईशा तिष्ठति ||

Among metals gold is the best among planets the Sun is the most excellent. Among powers Mother Kamaakhyaa stands the most supreme beyond all other powers.




माँं

 

नीलसरस्वती स्तोत्रम्

घोररूपे महारावे सर्वशत्रुभयंकरि।
भक्तेभ्यो वरदे देवि त्राहि मां शरणागतम् ।।१।।

हे देवि यस्या रूपं घोरम् अस्ति
यस्या रवो महान् अस्ति
या सर्वेषु शत्रुषु भयस्य करी अस्ति
या भक्तेभ्यः वराणां दाता अस्ति
अहो माँ देवि कृपया त्वं शरणागतं मां त्राहि

Oh! Goddess whose form is Terrific, whose roar is intence,who is the maker of terror in among all enemies, who is the giver of blessings to devotees, Oh! Mother Goddess with compassion may you protect me the supplicant.

सुरासुरार्चिते देवि सिद्धगन्धर्वसेविते।
जाड्यपापहरे देवि त्राहि मां शरणागतम्।।२।।

हे देवि या आसुरैःसुरैश्च अर्चते
या सिद्धैर् गन्धर्वैश्च सेवते
या च जाड्यं पापं हरति
अहो माँ देवि कृपया त्वं शरणागतं मां त्राहि

Oh! Goddess who is worshipped by the Gods and Demons, who is honored by the semidivine beings and the celestial musical beings. Who destroys insensibility and misfortunes, Oh! Mother Goddess with compassion may you protect me the supplicant.

जटाजूटसमायुक्ते लोलजिह्वान्तकारिणि।
द्रुतबुद्धिकरे देवि त्राहि मां शरणागतम्।।३।।

हे देवि या जटाजूटेन समायुक्ता अस्ति
या लोलजिह्वस्य अन्तकारिणी अस्ति
या द्रुतबुद्धेः  करी अस्ति
अहो माँ देवि कृपया
त्वं शरणागतं मां त्राहि

Oh! Goddess who is endowed with  long tresses of hair twisted on the top of the head, who causes the destruction of a restless tongue, who is the causer of a quick intellect. Oh! Mother Goddess with compassion may you protect me the supplicant.

सौम्यक्रोधधरे रूपे चण्डरूपे नमोSस्तु ते।
सृष्टिरूपे नमस्तुभ्यं त्राहि मां शरणागतम्।।४।।

यस्या रूपं सौम्यस्य क्रोधस्य च धरम् अस्ति |
यस्या  रूपं चण्डम् अस्ति नमोsस्तु तुभ्यम्
यस्या रूपं सृष्टिर् अस्ति तुभ्यम् नमः
कृपया त्वं शरणागतं मां त्राहि

Whose form is the bearer of a pleasant and nature of wrath. Whose form is ardent with passion, Glory to you. Who has the form of creation glory to you, with compassion may you protect me the supplicant.

जडानां जडतां हन्ति भक्तानां भक्तवत्सला
मूढतां हर मे त्राहि मां शरणागतम् ||५||

या भक्तेषु भक्तवत्सला अस्ति
जडानां जडतां हन्ति | त्वं मम मूढतां हर |
कृपया त्वं शरणागतं मां त्राहि ||

Who is worshipped and affectionate in among all devotees destroy the apathy of the apathetic, may you take away my degeneracy and with compassion may you protect me the supplicant.

ह्रूं ह्रूङ्कारमये देवि बलिहोमप्रिये नम:।
उग्रतारे नमो नित्यं त्राहि मां शरणागतम्।।६।।

हे देवि या कारमया "ह्रूं ह्रूम्" इति अस्ति
बलीन् होमान् च  प्रिया अस्ति नमस्तुभ्यम्
अये उग्रे श्रीतारे नित्यं नमस्तुभ्यम्
कृपया त्वं शरणागतं मां त्राहि |

Oh ! Goddess who is fond of sacrifices and homas and who is consisting of song of praise hrum hrum. Oh formidable Shree Tara  continual salutations to you, and may you protect me the supplicant.

बुद्धिं देहि यशो देहि कवित्वं देहि देवि मे।
मूढत्वं च हरेद्देवि त्राहि मां शरणागतम्।।७।।

हे देवि त्वं बुद्धिं यशस् कवित्वं च मह्यम् देहि |
अयि देवि माता मूढतं हरेत् कृपया त्वं शरणागतं मां त्राहि ||

Oh! Goddess may you grant to me the power of forming and retaining conceptions and general notions, honor and power. Oh! Goddess Mother please take away confusion and may you protect me the supplicant.

इन्द्रादिविलसदद्वन्द्ववन्दिते करुणामयि।
तारे ताराधिनाथास्ये त्राहि मां शरणागतम्।।८।।

या इन्द्रेण आदिभिः द्वंद्वेन वन्दिता अस्ति |
या करुणायाःमया अस्ति
हे तारे यस्याः आस्या तारायाःअधिनाथे अस्ति |
कृपया त्वं शरणागतं मां त्राहि ||

Who is honored by both males females the flashing Indra and other Gods, who is made of compassion, Oh Goddess Tara whose abode is with the supreme protector Lord, may you protect me the supplicant.

अष्टभ्यां च चतुर्दश्यां नवम्यां य: पठेन्नर:।
षण्मासै: सिद्धिमाप्नोति नाsत्र कार्या विचारणा।।९।।

नरो योsष्टभ्यां च चतुर्दश्यां नवम्याम् इदम् स्तोत्रम् पठेत् |
षण्मासैर् नरोsत्र सिद्धिम् अप्नोति कार्या विचारणा भवति

The person who could study this stotram in the 9th day of the lunar half month, in the 14th day in a lunar fortnight and in eight day of a half month by six months he obtains success. The result is a distinction.

मोक्षार्थी लभते मोक्षं धनार्थी लभते धनम्।
विद्यार्थी लभते विद्यां तर्कव्याकरणादिकम।।१०।।

मोक्षस्य अर्थी मोक्षं लभते
धनस्य अर्थी धनं लभते
विद्याया अर्थी तर्कस्य व्याकरणं विद्यं
च इत्यादिः लभते ||

The one who desires Moksha (liberation) Moksha is obtain. The one who desires wealth, wealth is obtain, the one who desires knowledge, knowledge and analysis of philosophy and so on is obtain.

इदं स्तोत्रं पठेद्यस्तु सततं श्रद्धयाSन्वित:।
तस्य शत्रु: क्षयं याति महाप्रज्ञा प्रजायते।।११।।

अन्वितो यस् तु श्रद्धया  इदं  स्तोत्रं सततं पठेत्
तस्य शत्रुः क्षयं याति महती च प्रज्ञाप्रजायते ||

Who understood with devotion and recites this hymn of praise continuously , his enemy flees the dominion and great knowledge is brought forth.

पीडायां वापि संग्रामे जाड्ये दाने तथा भये।
य इदं पठति स्तोत्रं शुभं तस्य न संशय:।।१२।।

तथा पीडायां संग्रामे जाड्ये भये दाने वा अपि
य इदं शुभं स्तोत्रम् पठति तस्य संशयः न वर्तते ||

So also in pain in conflict in dullness in peril or also in bribery who recites this auspicious hymn of praise he has no uncertainties.

इति प्रणम्य स्तुत्वा च योनिमुद्रां प्रदर्शयेत
।।इति नीलसरस्वतीस्तोत्रं सम्पूर्णम्।।

इति प्रणम्य स्तुत्वा च यश्च योनिमुद्रां प्रदर्शयेत
इति नीलसरस्वतीस्तोत्रं सम्पूर्णम् ||

So in this manner now who having thrown oneself down on the ground quite prostrate and flat like a stick placed horizontally and having eulogized and shown the hand gesture mudras of the Divine mother, so completes the praise of Blue Sarasvati




Toolum

 

स्थानीयलघुभोजनम्

गुडकस्य पादचषकाः
मसिनघृष्टनारिकेलस्य ३चषकाः
घृष्टार्द्रस्य लघुदर्व्यौ
घृष्टायाः नारङ्गफलत्वचः लधुदर्वी
शर्करस्य त्रिचषकाः

चलुके माध्यमोष्णतायां शर्करः स्थाप्यते अन्तिकम् अयं लीयते
अयं न अधिकं पच्यताम् अयं च नित्यं वेपताम् | तर्हि गुडकं आयुतशर्करेण सह चलुके स्थाप्यते उभौ  च अंशौ  अचिरात् वेपेताम् | अधुना अन्याःसर्वाः नारिकेलार्द्रनारङ्गत्वचः शर्करगुडकाभ्यां सह चलुके स्थाप्यन्ते |  निचोष्णतायां सर्वे अंशाः पचयन्त्ते ते च नित्यं वेपन्ताम् अन्तिकं अंशानां मिश्रणं स्निह्यते |
तर्हि मिश्रणं लघुभागेषु भाजितम् अस्ति लघुभागाः शीतलीभवितुं स्थाले स्थाप्यन्ते | यदा ते सर्वे शीतलाः भवन्ति तदा यत्किमपि भागानां रुपाणि इष्यन्ते तानि रूपीकारयेयुः लघुगोलाः कुट्टितरूपाणि इत्यादीनि ||

Toolum इति अस्माभिः अत्र कथ्यते

Local snack

Quarter cup of Molasses
3 cups of finely grated coconut
A teaspoon of grated fresh  ginger
A teaspoon of orange zest
3 cups of sugar.

In a small pot on medium heat the sugar is placed until it melts it must not be overcooked and it must be constantly stirred. Then molasses is placed in the small pot along  with the melted sugar and the both ingredients are stirred for a short while. Now all other ingredients orange zest, ginger, coconut are place in the pot with the with the sugar and molasses. On a low heat all ingredients are cooked and they are constantly stirred until the mixture of ingredients are sticky. Then the mixture is portioned in small parts, the small parts are places on a tray to become cool. When they are all cooled then whatever shapes of the portions is desired they could be cause to be made a form small balls flattened shapes etc.

Here it called Toolum by us..






Joefield

 

स्वस्य नाम्नः संस्कृतार्थःन वर्तते | इदम् आङ्गलनाम अस्ति लाडिकस्य  वा नाम ||

जेसन् इति  तत् यवनीयनाम अस्ति
जोफ़ीळ्ड् इति तत् एव अङ्गलनाम अस्ति

फ़ीळ्ड् इति field  क्षेत्रम् इदं भवेत्
जो इति इदं कस्यचित् लाडिकनेतुः नाम भवेत्
( जोस्य क्षेत्रम् )🤣 the field of Joe, Joe's field

एकदा सहाध्यायी अवदत् जे इति एव आसीत् जि
आङ्गलभाषया victorious पदं भवति |
सन् च अयं भागः इच्छा desiderative भवति
एकःयःजयम् इच्छति इति अर्थःभवेत् 🤣
विहसामि

किन्तु मम गुरुः मम निगूढहिन्दुनाम शर्म अस्ति इति अवदत्
ज्योतिषःच भवतःभारतीयनाम कालीचरणः अस्ति इति उक्तवान्

Kurma

 

कुर्म
अंशाः भवन्ति 
कुर्मपिष्टम्

पङ्किलमण्डस्य दर्व्यौ
दुग्धचूर्णस्य सार्धचषकः
पिष्ट्याःचषकौ
लधुभागेषु शीतलघृतस्य पादचषकः
जातिकोशचूर्णस्य पाददर्वी
त्वचचूर्णस्य सार्धदर्वी
एलाचूर्णस्य त्रिपाददर्वी
घृष्टार्द्रपेषस्य स्थूलदर्व्यौ
क्षीरस्य तृतीयचषकाः

Kurma
Ingredients are,
Kurma dough
Two spoons of condensed milk.
Half cup of powdered milk.
Two cups of flour.
Quarter cup of cold ghee in small pieces.
Quarter spoon of nutmeg powder.
Half spoon of cinnamon powder.
Three quarter spoon of cardamom.
Two large spoons of ginger paste.
A third cup of milk.

भर्जनाय घृतम्
Ghee for frying

शर्करावरणम्
शर्करस्य त्रिपादचषकः
जलस्य पादचषकः इति ||

Sugar covering (glaze)
Three quarter cup of sugar
Quarter cup of water. ...

योजनम्
पिष्टी दुग्धचूर्णं जातिकोशचूर्णम् एलाचूर्णं त्वचचूर्णं च संमिश्र्यन्ते
शीतलघृतस्य भागैः सह मिश्रणे अन्तर् आर्द्रम् स्थाप्यते | तर्हि पङ्किलमण्डःक्षीरं पिष्टीकर्तुं समायुज्येते | पिष्टस्य स्वरूपं किण्वरोटिकाखण्डः इव भवेत् | चिन्ता तु माअस्तु | इदं सम्यक् | इदं कल्कीक्रियताम् अन्तिकम् इदं संघट्यते | अधुना इदं पिष्टं पिष्टीचूर्णस्थले स्थाप्यते तर्हि इदं इञ्चस्य पादमात्रायै वेल्लन्या मतीक्रियते यदा इदं समाप्तं भवति तदा चिपिटीकृतपिष्टे कर्तर्या पृथक् इञ्चमात्रायै अन्यम् अन्तम् पर्यन्तम् अन्ततः ऋजुवृक्णं क्रियते | इदं पुनर्पुनः क्रियते अन्तिकं चिपिटीकृतपिष्टम् रेखाकारेषु अस्ति तर्हि तानि रेखाकाराणि चतुरङ्गुलस्य भागेषु
अन्तर्छिद्यन्ते ||

Preparation
The flour powdw milk mutmwg cardamom and cinnamon are mixed together. The ginger is placed into the mixture along with the pieces of cold ghee.Then the condensed milk and milk are added to make the dough.The consistency of the dough may be like bread crumbs  but don't worry this is okay it must be kneaded until it comes together. Now this dough is placed on a floured surface then it is rolled out with a rollin pin to have an inch. When the becomes complete, the on the flattened dough with a knife a straight cut is made from one end to the other end a inch apart. This is done again and again until the flattened dough is in  strips. Then these strips are cut into portions of four inches.

भर्जनाय घृतम्
Ghee for frying

अत्युष्णतायां पिष्टस्य भागाः निमेषाभ्याम् निमेषाय वा घृते पच्यन्ते अन्तिकं ते पिङ्गलाः भवन्ति | ते अत्युष्णघृततः उपाक्रियन्ते कटोरे च ते शीतलीभवितुं स्थाप्यन्ते   ||

On a high heat the pieces of dough are fried in ghee for a minute or two until golden brown. They are removed from the ghee and in a bowl they are placed to be cooled.

शर्करावरणम्
Sugar coating

घटे शर्करेण सह जलं क्वथ्यते अन्तिकम् सर्करः स्निह्यते |
यदा मिश्रणस्य स्वरूपं लभ्यते उष्णमिश्रणं भर्जितभागान् आवर्षति यावद् सर्वे संमिश्र्यन्ते अन्तिकम् सर्करमिश्रणं यद् भर्जितपिष्टस्य भागेषु शुष्यते ||

The water is boil along with the sugar until the sugar is melted, when the consistency of the mixture is obtained the melted sugar is pour on the fired prices while all are mixed together until the sugar mixture is dried on the pieces of fried dough.

कुर्म इति अस्माभिःकथ्यते ||

This is called kurma by us.



Chilli bibi

 

स्थानीयलधुभोजनम्
Local snack

अंशाः
लवेटिकाः ५ यदि ताःस्थूलाः यदि तु ताः अल्पाः ९ सम्यक् भवेयुः
कपिलशर्करः अयं भवतां स्वादाय उपयुज्यताम्

उपदंशःस्वैरः भवति
"आर्द्रकचूर्णम् जातिकोशचूर्णम् त्वचचूर्णम्" इत्यादिःभवन्ति

Ingredients are,
Corn 5 if they are big but if they are small 9 should be good.
Brown sugar , this  must be used for you'll taste.
Spices is optional Ginger powder nutmeg powder cinne powder etc .

लवेटिकानां सर्वे कणाःअपाक्रियन्ताम्
अत्युष्णतायां च ते घटे स्थाप्यन्ते
अधुना घटे स्थापयित्वा ते अन्तिकं पच्येयुः
ते श्यावाः सन्ति | न तु कालाः | परिप्लुष्टाः न सन्तु
यावद् ते अत्युष्णाः इतोपि सन्ति
यन्त्रोपले मिश्रके वा ते चूर्णे अन्तर्घृष्ट्यन्ते |
अधुना पचितघृष्टकणैः शर्करःस्वस्वादाय मिश्र्यते |
यदि उपदंशाःभवद्भिःइष्यन्ते ते संयुज्यन्ते ||

All grain of the corn must be removed and on a high heat that are  placed. Now having placed in a pot they should be cooked until dark brown but not black they must not burnt. While they are still warm in a mill or food processor they are grounded into a powder. Now sugar is mixed to your own taste with the cooked grounded corn grains. If the spices are desired by you'll they are added.

पत्रं सुच्याः रूपे अन्तर्स्नीयते
सुच्याःअग्रं मुद्रितीक्रियते मिश्रणं च
मुक्तान्ते अन्तर्स्थाप्यते तर्हि तद् मुक्तान्तं मुक्तान्तं मुद्र्यताम्

Paper is wrapped into a shape of a cons, the tope of the cone is sealesand the mixture is  placed into the open end then it opened end is sealed.

इदं सुतेभ्यःरोचते मया वा सर्वं खाद्येत ||
Children love it or all could be eaten by me.

चिल्ली बिबी इति अत्र  कथ्यते
It's called Chilli Bibi here



Happy Birthday

 

भवतःशुभभजन्मदिनं भूयात्
विश्वम् आरोग्यंस्थिरमनश्च
भवन्तं दीयताम् | 

नमोsस्तु ते ||

May your birthday be auspicious and
May freedom from disease and stable mind be granted to you by the universe.
Salutations to you.




Blue

 प्रणम्य शिरसा देवीं वरदांमहाविद्यद्वितीयां

मदीयनेत्राभ्यां केन्द्रीकृताभ्यां भूमावुपश्रूये 


Having prostrated with my head to the Goddess who is the giver of boons the second of the Mahavidya( Great knowledge), with eyes made focused on the floor I attentively listened.


पदेपदे यद् मेघगर्जनमिव शब्दितम् उपश्रूये

यद् कवचमिवमदीयान्तर्भागं हृद् स्पृश्यंकृतं

दुं दुं दुम् इति आगता फट् फट् फट् इत्युक्तः


At every step which sounded like thunder, I listened, which touched the heart the core like a war kettle drum , Dum Dum Dum like this  she came, uttered by me Phat Phat Phat.


आच्छोयत्कर्तरीकरां दुस्कर्मन्स्वत्वचाच्छोयन्तीम्

अहङ्कारस्वशिरविवृक्णां धूम्रनीकाशनीलवर्णम्


In whose hand is a flay scissors, who cuts off  your own skin, the bad karmas, who severs your own head the ego and who is blueish greyish in color.


बलिरक्तपरिपूर्णखड्गांचिबिरक्तस्नवजिह्वललनां मातरम् 

मेध्याजशशमांसपूरितहोमांतृतीयनेत्रबिन्दुरक्तप्रियां प्रभुम्


Who is the divine mother the powerful , who has a scarifical sword covered with the blood of a Buffalo. Whose lolling tongue drips blood to the chin,whose Homas are filled with the flesh of rabbits goats, destained to be scarified and who favors the blood from the point of the third eye.


मातुरक्षोभ्यभैरवकलत्रे मित्राणिकुटुम्बंमां च रक्ष


Hey Ma whose husband is the great imperturbable Bhairava (Shiva) may you please protect me, my family and friends.



Progress

 मार्गेऽधाव्यत मया

नतु कुत्रचिद् अगम्यत

उभे पदेऽचल्येताम्

नतु कुत्रचिद् अगम्यत


नकुतश्चिद् सा जाता

सुस्वरमुक्ता महिला

एकपदं क्रियताम् नु

अवलोक्यतांस्वगतिरिति


पदमग्रतोऽक्रियत

तदापदेपदे यातम्

क्रियते दिने ननगरम्

क्रियत इत्युक्तामहिला


On the path running was done by me, however no where was gone to by me, both feet moved but no where was gone to by me.


From no where she appeared, so sweetly she said, one step must be made, now your own movement must be observed.


One step forward was made, then the lady said at every step progress is made. In a day no city is made.




Wednesday, July 28, 2021

Chow

 

अधुना उर्वारूणि ऋतौ सन्ति
सर्वेषाम् आपणानां तानि वर्तन्ते |
तेषां शुल्कम् अतीवाल्पमूयम् अस्ति
सर्वे तानि उपक्रयणीयाः यतोहि
शुल्कम् अतीवाल्पमूयम् वर्तते |
केचित् जनाः स्वैरम् तानि ददति |
तथा तैः वयं ट्रिणिडाडीयभोजनविशेषं
करिष्यामः | छौ Chow इति अस्माभिः
कथ्यते |
सरलांशाः
५ उर्वारूणि दंशाकारेषु अन्तर्छिद्येरन्
श्याममरिचचूर्णस्य लवणस्य च सिंचनानि कानिचित्
१,२,३ वा उष्णमरिचाःमसिनाःछिद्यन्ते
एकलशुनम् घृष्यते
दैशिकधान्यकानि कानिचित् मसिनानि घृष्यन्ते इति भवन्ति

जम्बीररसम् अलं वा कृताकृतम् भवति |

सर्वे अंशाः महाकटोरे संमिश्र्यन्ते

अधुना खादामः 🤤😁


Chow is a common Trinidadian  snack.

It is made with fresh fruit or veggies, local seasonings (like culantro and cilantro), salt, pepper, and garlic.

छौ ट्रिणिडाडीय-साधारण-लघुभोजनम् अस्ति

इदं नवफलैः नवशाकैःवा क्रियते
दैशिकधान्यकैःनवहरितव्याघरणैःculantro and cilantro
लशुनलवणमरिचैःच अपि क्रियते


Wednesday, July 21, 2021

Carrots

 

यदि भवतां पचतमुद्गगःपूर्वमेव वर्तते भवन्तःच केनापि ओदनेन सह तं खादितुम् इच्छन्ति तर्हि मम स्वादुपाककृतिःवर्तते  भवद्भ्यःया रोचेत |

यदि भवताम् ओदनम् पूर्वमेव वर्तते तत् साधु भवति यदि न तर्हि
काचित् व्रीहिः पचेत् | अत्युष्णजले व्रीहेः २चषकौ लवणस्य सिंचनेन पच्येयाताम् | एषःव्रीहिः स्वरूपाय पच्यताम् | मह्यम् मृद्वोदनम् न रोचते परंतु इयं स्वरूपाय पच्येत |

अनन्तरम् तस्याः पचनम् समाप्तं भवति सम्प्रति ओदनम् शीतलजलतः अधस् स्थापयेत् यद् उष्णजलतः तस्य पचनं निवारयिष्यते | यदा सर्वं समप्तम् तदा महागाजरौ लभ्येयाताम् यदि महागाजरौ न स्तः तर्हि बहवःस्वल्पगाजराः उपयुज्येरन् ते अपि सम्यक् भविष्यन्ते | उभौ महागाजरौ घृष्येयाताम् अधुना च घृष्टौ गाजरौ कटोरे स्थाप्यते |

एते स्वादनांशाः
एकंसर्वंलशुनम्
हरिद्राद्वयस्य एकःअल्पभागः
बहूनि आर्द्राणि 😁
५स्वादमरिचाः
१उष्णमरिचः
कानिचित् करीपत्राणि च इति सन्ति

सर्वे ते आंशाः घृष्यन्ते तर्हि ते घृतस्य पूर्णदर्व्या उत्तप्तघटे स्थाप्यन्ते | ते पच्यन्ते अन्तिकं मृदवःवर्तन्ते  | तदनन्तरम् उत्तप्तघृतेन अन्यैः अंशैः च घृष्टगाजराः घटे स्थाप्यन्ते | बहुकालम् एते गाजराः न पच्यन्ताम् | ते कोमलम्  अन्तिकं न पच्यन्ताम् | तर्हि ओदनम् घृष्टगाजरैः अन्यैः अंशैःच सह घटे अन्तर् स्थाप्यते सर्वे च श्याममरिचचूर्णस्य स्वादनलवणस्य च कैश्चित् सिंचनैः मिश्र्यन्ते |

तथा अधुना भवतां स्वादनोदनम् पचतमुद्गेन सह खाद्येत
गाजरौदनम् इति कथ्यते अम्स्माभिः
Carrot Rice 🤤

Monday, July 19, 2021

मालकंसरागः

 

मालकंसरागः
सःयःमालाः इव सर्पान् धारयति इति व्युत्पत्तिः |
एषःरागःशिवभक्तगानीयविद्यालयतःजातः |
वास्तवे अधिकतमाःपञ्चस्वररागाः
शिवभक्तगानीयविद्यालयेभ्यःजाताः ||

रागःअलघुःविमर्शवान् वर्तते अयं च अधस्तनस्वरग्रामतःनिर्वृत्तः
बहु वर्तते | उरुरात्रौ उत्तमसमयः एतस्मै रागाय भवति | अस्य रागस्य परिणामाःमद्वन्तःप्रसादनाःसन्ति ||

उच्यते श्रीपार्वती शिवस्य शमनाय रागं लिखितवती |  महादेवस्य एवमपि भूतपिशाचवेतालाः एतं रागं श्रोतुं
स्वनिवासेभ्यः निर्गच्छन्ति इतियादयः ||

Raag Malkauns
He who wear serpents like garlands, is the meaning. This Raag Shaivite Musical school, in fact most pentatonic Raaga come from Shaivite musical schools.

The Raag is deep and meditative and it mostly developed from lower five notes of the octave. At  late night is the best time for this Raag. The effects of this Raag is intoxicating and calming.

It is said Ma Shree Parvati wrote the Raag for the claiming of Shiva even the spirits ghost goblin etc come out from their abodes to hear this Raag.

Friday, July 9, 2021

#nontranslatable

 केचित् संस्कृतशब्दाः आङ्गलशब्दैः 

प्रतिमातव्याः साक्षात् न एव सन्ति |

किन्तु वयं अन्यासाम् विदेशभाषाणां 

वर्णनात्मकशब्दैः जनेभ्यः एतान् शब्दान्

 विवक्तुं न शक्नुमः इति नहि सत्यम् ||







Wednesday, June 30, 2021

Pumpkin skin

 

कुष्माण्डः

किण्वरोटिका

सा सर्वैःबीजैः फलत्वचा च सह लेशेषु अन्तर् विपाकं एकं लघुं कुष्माण्डं विशसति स्म | बीजानि त्वक् अखिलफलं इति अत्युष्णजले सर्वे एलाहरिद्राजातिकोशचोचचूर्णैः
सह क्वाथ्यन्ते स्म | सर्वे ते अंशाः क्वथित्वा मिश्रके स्थाप्यन्ते स्म
अथ तस्मात् मिश्रणतः रसम् अवशीतीभवितुं आसीत् |

अन्यस्मिन् पात्रे शुष्कांशाः मिश्र्यन्ते स्म |
समीदा कादम्बरीबीजं शर्करः च इत्यादयः | शर्करस्य तत्स्थाने  मधु उपयुज्येत करम्भकं वा समीदया मिश्र्येत | किञ्चित् घृतम् लवणकूर्चं च सर्वेषु शुष्कांशेषु अन्तर् स्थाप्येते स्म |

तहि प्रथममिश्रणं मृदुक्लीतके अन्तर् द्वितीयमिश्रणेन
मिश्र्यते स्म | एकस्मिन् पात्रे नूतनमिश्रणं उष्णकोष्ठे स्थाप्यते स्म इदं च एकहोरायै आर्द्रवस्त्रेण छद्यते स्म | अथ एतत् क्लीतकं द्विगुणपरिमाणम् अभवत् यदा होरा पर्याप्ता आसीत् क्लीतकं पुनः अमिश्र्यतकिन्तु एतस्मिन् समये इदम् अन्यहोरायै आपाकभ्राष्ट्रे अस्थाप्यत |

यदा सा होरा पर्याप्ता आसीत् तदा  क्लीतकम्  आपाकभ्राष्ट्रे स्थाप्यते स्म  तर्हि क्लीतकस्य आपाकभ्राष्ट्रं ३६०-तापमात्रायाम् उत्तप्तापाके अन्तर् स्थाप्यते स्म यावत् इदं सुवर्णश्याववर्णम् अभवत् ||






Thursday, June 24, 2021

Yogamaharishi Swami Gitananda

 

चित्रे एषःमहर्षिःगीतानन्दःस्वामी अस्ति
सः स्वगुरोःयोगगुरुःआसीत् केषुचित्
गतवर्षेषु पूर्वं द्वीपे अत्र सः वृतस्वल्पछत्रेभ्यः
हठयोगम् अपाठयत् | सुविविक्तदेवालयेषु
सःहठयोगं पाठितवान् यत्र छात्राःप्राणायामस्य
आसनानां क्रियाणां च अभ्यासं कृतवन्तः इत्यादयः|
यद्यपि सःमहायोगी आसीत्  द्वितीयलोकेयुद्धे
योगमहर्षिःअपि वैद्यचिकित्सकः आसीत् तथापि
द्वीपे अत्र सः नःराज्येन भिषजभ्यासं


कर्तुम् न अनुजानाति स्म | दीर्घकालाय सःकेवलं योगं
पाठितान् परंतु एकस्मिन् काले वृद्धनरःवैद्योपकाराय
याचते स्म यतोहि नरः नित्यपीडायाम् आसीत् वृद्धनरः
सुस्थित्याम् अटितुं न शक्नोति स्म | सः वृद्धनरः अन्यं
चिकित्सकं गतवान् सःच चिकित्सकःअकथयत्
भवान् अस्त्रचिकित्साम् एव करोतु  तस्याः च मूल्यम्
१५०००डोल्लरान् भविष्यति इति | वृद्धनरःमहार्षिं
प्रत्यागम्य पुनः याचते स्म | यदा योगी तस्याः मूल्यं
श्रुतवान् | तदा केवलं हि तस्याःअस्त्रचिकित्सायाः मूलयं
अतीवाधिकम् एव आसीत् अहं भवन्तं उपकरिष्यामि
इति योगी अवदत् | वृद्धनरःआश्रमं गतवान् महर्षिःच
तम् उपकृतवान् | तर्हि नरः महार्षेः उपकारेण
सुस्थित्याम् अटितुं  शक्नोति स्म | | केनचित् कालेन चिकित्सकःसुस्थित्याम् अटन्तं नरं दृष्टवान् |
सः अपृच्छ्त् भवान् अस्त्रचिकित्सां कर्तुम् न आगच्छत्
कथं सुस्थित्यां भवान् पीडां विना अटति इति | वृद्धनरः
प्रतिवदति स्म भारतात् योगी अस्त्रचिकित्सां विना माम् उपकृतवान् इति | चिकित्सकःअवदत् तत्  असम्यक् अस्ति
सः योगी अत्र भिषजभ्यासं कर्तुं न शक्नोतु धिक् धिक् न साधु
अहं आरक्षकं कथयिष्यामि इति | यद् चिकित्सकेन उक्तम् इति
वृद्धनरः कान् चित् छात्रान् अकथयत् ते च भारताय यात्रापत्रं
क्रीतवन्तः तत्क्षणं महर्षिःभारतं प्रत्यागच्छत् ||

कैश्चित् गतकालैः छात्राः स्वगुरुं दृष्टुम् इच्छन्ति स्म तेषां
छात्रौ स्वगुरुं दृष्टुं भारतं गतवन्तौ | तौ हिमालयं पर्यटतः स्म
यत्र कोटरे महर्षिः निवसति स्म | कोटस्य प्रवेशे अन्ये केचित् भारतीयछात्राःबहिःस्थापयन्ति स्म ते कोटरं न प्रविशन्ति परंतु
ते उभौ ट्रिणिडाडीयछात्रौ अकथयन् न कश्चित् कोटरे अन्तर्
गच्छति इति |  तौ प्रतिवदतःस्म किमर्थम् आवाम् स्वगुरुंदृष्टुम्
इच्छावः कृपया आवां दृष्टुं भारतं पर्यान्तम् ट्रिणिडाड्देशात् आगच्छावः स्म कृपया इति | छात्राः उक्तवन्तः कोटरे भवतोः
गुरुः अस्ति परंतु सः न निर्गमिष्यति यतोहि सः
ब्रह्मकर्मसमाधिःअस्ति इति | तौ पुनर्पुनः याचेते | तर्हि गुरुजनः
अवदत् भवन्तौ कोटरं गच्छताम् किन्तु भवन्तौ शान्तयताम् इति
तर्हि तौ कोटरं प्रविशतःस्म तस्मिन् कोटरे तमः आसीत् किन्तु स्वल्पदूरात् प्रकाशः दृष्टः यदा तौ प्रतिच्यवीयस् उपगच्छतः स्म
तदा प्रकाशः उज्ज्वलः अभवत् यावत् तौ किञ्चित् दृष्टुं न शक्नुतः | तयोःएकः उक्तवान् आवाम् कोटरात् निर्गच्छावःइति
तर्हि तौ प्रकाशे अन्तर् स्वरं श्रुतवन्तौ आयो मम शिष्यौ दूरात् आगच्छतः चिन्ता मा भवन्तु योगस्य प्रकाशं पश्यास्तं अधुना गच्छतम् दृष्टं च योगप्रकाशम् उपदिश्यास्तम् इति ||



Monday, May 31, 2021

Holiday Tomorrow

 भारतीय-एति-दिनम् 

दिनं प्रतिवर्षं पञ्चममासस्य त्रिंशेअ वलोकयति | नौकायां नाम्ना फ़तेल् रज़क् इति एतत् दिनं 1845-वर्षस्य पञ्चममासे प्रथमभारतीयभृतानाम् एतिं कीर्तयति | फ़तेल् रज़क्-नौका ट्रिणिडाड्देशस्य संयमवता वृद्धिना उपकर्तुं नूतनभृतान् केवल्म्  न आनयत् परंतु अपि सा नौका नूतनसंस्कृतिना नूतनजनान् आनयत् ||






Friday, April 30, 2021

ayaM zlokaH

तथा अन्यैःछात्रैःसहाहं गृहं गछन् आसम् 

प्राथमिकविद्यालयवस्त्रं धृतवन्तःवयं सर्वे 

यदर्थं वयं तत् धृतवन्त इतिज्ञातवान्नाहम् 

परंतु छात्रा मा अवाञ्चिता गान्तुमरभत 


शुक्लांब्रह्मविचारसारपरमामाद्यामित्यदयः 

सर्वे ते मया सह गान्तुम् रेभिरे अहं तु जज्ञो

न केचित् श्रीवाग्देव्याःश्लोकान् जानत इति

तर्हि स्वप्नया प्रसुप्त आसम् इति अहं जज्ञौ ||


So I was going home along with other students.We all wore primary school uniform, why we wore that I didn't know. However a student who turned towards me began to sing.

शुक्लांब्रह्मविचारसारपरमामाद्याम् etc. They all began to sing along with me, but I knew no one knows the verses of the Goddess. Then I knew I was in a dream sleeping.







Wednesday, April 21, 2021

16

 सङ्गीताध्यापकःअवदत् त्रितालःसर्वेषां तालानां राजा अस्ति इति | तस्य वचनं अङ्गीकरोमि स्म यतोहि अयं रागःबहुभिः भारतीयशास्त्रीयगायकैःउपयुज्यते | अयं तालः 

साधारणःअस्ति | यद्यपि बहवःअन्ये तालाःवर्तन्ते तथापि अयम् एकःबहून् रागान् सङ्गच्छति इति मे प्रभाति  ||

वयमपि पश्चिमसङ्गीते अयं तालः बहुभिःगायकैः उपयुज्यते इतिपश्यामः | ते वादकाःगायकाः अस्य भारतीयनाम न जानीयुः ते वा तालानां गणितीयविज्ञानं न जानीयुः परंतु एषःविशिष्टतालःतैः अमत्या बहूपयुज्यते  ||

कदाचित् यावत् पश्चिमसङ्गीतानि श्रूयन्ते 

पश्चिमतालानां निर्माःमया गण्यन्ते कदाचित्  तत् अमत्याक्रियते | प्रायस् षोडशाहननानि गण्यन्ते मया | तथा षोडशसङ्ख्यायाःविषये यद् विशेषम् इति मन्ये ||

षोडशमातृकाः

षोडशमातृकापूजा

सुप्रियषोडशाल्पवयाः (Sweet sixteen)  एषः एकः पश्चिमविचारः अस्तीति चिन्तयामि |

षोडशकलविद्या इति मा अपृच्छन्तु | न जाते यद् तत् अस्तीति इत्यादिः ||


#Some #Sanskrit








Tuesday, April 20, 2021

Veganism in Hinduism

 

शाकभक्षजनाःये अपि पशुद्रव्याणि न खादन्ति
#Vegans इति कथ्यते नाम कैश्चित् | मम एकः प्रश्नःवर्तते | ते ये हिन्दवःसन्ति | होमाःपूजाःअभिषेकाः अन्ये काल्प्यक्रियाःच  पशुद्रव्याणि विना क्रियन्ते कथम् इति  ||
भवद्भिः उपयुज्यते किम् ?

घृतं दुग्धं दधि मधु च सर्वाणि हिन्दुकल्पेषु उपयुञ्जन्ति | तानि सर्वाणि प्रत्याहरन्ति कैः ?

एकदा शाकाहारि घृतं दृष्टं मया | घृतं साकेभ्यः आगम्येत इति न अज्ञायत | तत् दुग्धात् आगम्यते  अपि दधि | होमाः घृतं विना क्रियन्ते कथम् ?

एकःहिन्दुनरः मे उक्तवान्
अधुना होमेषु वयं न घृतं  उपयुञ्ज्मः | शाकाहारि तैलं वयम्
उपयुञ्ज्मःइति | अतः अभिषेके भवन्तः तत् तैलं उपयुञ्जन्ति इति तर्हि ममप्रश्नःआसीत् | आम् इति तस्य उत्तरम् आसीत् ||

#Hindu #veganism

मम अन्यः प्रश्नः आसीत्
यदि तत् तैलम् उपयुज्यते तर्हि ते मन्त्राः उपयुज्यन्ते ते अपि विकृतवन्तः वा ? इति |
मन्त्राःके इति सः प्रतिवदति स्म ||

मम अन्यः प्रश्नः आसीत्
यदि तत् तैलम् उपयुज्यते तर्हि ते मन्त्राः उपयुज्यन्ते ते अपि विकृतवन्तः वा ? इति |
मन्त्राःके इति सः प्रतिवदति स्म ||

सत्यम् असत्यम् वा इति सःप्रश्नःभवति
#Sanskrit
#Vegan
#veganism

एकदा केषाञ्चित् जनानां शाकघृतम् आसीत् | ते च होमं कर्तुम् इच्छन्ति स्म | मम च गुरुःतेभ्यः उक्ततवान् भवन्तः गच्छन्तु किञ्चित् च घृतं लभन्तु तर्हि होमःअस्माभिः करिष्यते | इदं शाकघृतम् यद् तत् अस्ति इति न जाने |
घृतम् धेनोः आगतम् भवन्तःअवगच्छन्ति वा इति




Thursday, April 15, 2021

The first Yogis

 ह्यः योगस्य विषये व्याख्यानं मया अश्रूयत | तस्याः व्याख्यानात् काचित् वार्ता पूर्वमेव मया  न एव अश्रूयत | प्राध्यापकःअवदत् अपर्याप्ता उपपत्तिः वर्तते यस्मिन् कश्चित् अवदेत् योगःवेदसः अगतः | शब्दः योगःवेदसि भिन्नसन्दर्भे  उपायुनक् | यदा सःशब्दःदृश्यते सःशब्दः अश्वरथयोः योजनं समुद्दिशति स्म |

चापि पशुपतिमुद्रा या हड़प्पा-पुरातनशास्त्र-क्षेत्रात् उपलब्धा आसीत् | मुद्रायां रूपकः शिवः भवेत् अयं वा न भवेत् | तत्र उपपत्तिः अस्ति किन्तु इयं सारभूता न अस्ति |यदि यस्मिन् काले कश्चित् उपपत्तिं लब्धुम् इच्छति तर्हि सः श्रमणस्य काले अवलोकयतु इति सः अवदत्  |
तस्मिन् समये सः शब्दः पूर्वमेव  श्रमणः नैव इतिश्रूतम् मया | तथा मम शब्दकोशः उपायुज्यत | तर्हि सः अवदत् अपि गौतमबुद्धः स्वेषु पूर्वदिनेषु श्रमणः आसीत् | अतः तस्य तपांसि आसन् यानि तस्य कालस्य  भिक्षवः इव आसन् | तस्मिन् काले आदौ वयमपि पश्यामः कौङ्कुमवस्त्राणि | श्रमणाःवस्त्राणां दलानि अलभन्त्त
ते दलानि सीव्यन्ति स्म तर्हि ते हरिद्रायां तानि रजन्ति स्म | अतः अद्य वयं हरिद्रावर्णवस्त्रेषु स्वामिनःभिक्षून् च पश्यामः | तस्मिन् काले अपि पश्यामः जनाः चतुराश्रमान् समाजं च विपरीतम् उत्पिपीन्ते | केचित् युवकाः स्वल्पयुवत्यः च सन्यासी सन्यासिनी च अभवन् | ते तपांसि कृतवन्तः प्राणायामः च प्रधानः आसीत् ते तूष्णीकम् उपविशन्ति स्म बहूनि आसनानि अद्य ज्ञायन्ते अस्माभिः तानि तेषु समयेषु न वर्तन्ते | बहूनि आसनानि आधुनिकानि सन्ति  | योगः भारतीयः अस्ति किन्तु न हिन्दुः यतोहि बौद्धमौसुलजैनधर्माःसर्वे योगं कृतवन्तः ते सर्वे योगं परिपूर्णाः आसन् | तर्हि वयं सर्वे जानीमः श्रीपतञ्जलिः इति ||





Monday, April 12, 2021

She wanted to see him

 देवीपूजा शिवं विना क्रियेत |

शिवपूजा देवीं विना नपूर्णा ||


सा अपृच्छत्  अहं तं दृष्टुम् इच्छामि इति 

तिलकोsदीयत सा क्रन्दिता श्रोतारोवृत्ताः 

पुरोहितावपिवृत्तावपृच्छतां किंकृतमिति

तंदृष्टुमैच्छदितिकिल कश्च इत्यपृच्छताम्


शूद्रनाथं नागयज्ञोपवीतं कैलासासितम्

अन्त्येष्टिक्रीडितं शवभस्मन्विलिप्तदेहम्

हलाहलपं तारास्तन्यपसुखितकण्ठंहरम्

भङ्गापं सोमपानम् इक्षुरससंधानीप्रहुतम्

शशिवासरपूजितंत्रिपुण्ड्रचिह्नंजटकेशम्

सा अपृच्छत्  अहं तं दृष्टुम् इच्छामि इति







Sunday, March 14, 2021

Tumeric

 हे महागणाधिपते

      वामटङ्कासीदत्कलत्र

      नमोsस्तु तुभ्यम् 

      श्रीगणेशाय नमः

      सिद्धिपाशहस्ताय

      विघ्नपास्यत्शक्तये

      निवारमोक्यविवेकाय

      ॐ श्रीस्कन्दभ्रात्रे नमः

ॐ श्रीं ह्रीं क्लीं ग्लौं गं गणपतये वर वरद सर्वजनं मे वशमानय स्वाहा॥


एकदन्ताय विद्‌महे ।


वक्रतुण्डाय धीमहि ।


तन्नो दन्ती प्रचोदयात् ॥


ॐ शान्तिः शान्तिः शान्तिः ॥


ॐ श्री महागणाधिपतये नमः ||


श्री हरिद्रागणपतिः||











Thursday, January 28, 2021

Wrestling


गतरात्रौ हठयोगस्य विषये किञ्चित् पठनं कृतम् | सूर्यनमस्कारस्य विषयः अपि पठितः | न हठयोगस्य गम्भीरपठनं पूर्वमेव एव कृतम् | मम च प्रेप्सा सदा आसीत् सूर्यनमस्कारःहठयोगात् जनुषागतः इति परंतु यद्यपि योगिनः श्रीकृष्णमचर्यःइव स्वछात्राःच अकथ्यन्त अभ्यासः हठयोगात् आगतः इति तथापि च एषःविशिष्टःलेखकः अकथ्यत सूर्यनमस्कारःभारतीयमल्लक्रीडायाःआगतः | विशेषतः तेषां व्यायामाः मिश्रदण्दःहनुमान्दण्डःसाधारणदण्डः इत्यादयः |

सम्प्रति नाहं ज्ञातुं  लब्धविद्यः | किन्तु यदि तेषां भारतीयबाहुयोधानां व्यायामाः पश्यन्ते तर्हि सूर्यनमस्कारस्य दण्डानां च सदृशताः पश्येयुः | अधुना यद्यपि सूर्यनमस्कारःमे अतीवरोचते तथापि एते दण्डाःमहाबलाःसन्ति यदा ते सम्यक् क्रियन्ते तदा लगुकाले निखिलशरीरः साधुव्यायामं लभ्यते |
सम्प्रति नमस्कारस्य दण्डानां च मिश्रणं क्रियते मया  ||

इतोपि ज्ञातुमिच्छामि कुतःएव नमस्कारः आगतः ||





Thursday, January 7, 2021

Chicken

 पद्ममयूरासनं कृतागमासनम् |

इदंच कर्तुं कष्टम् अस्ति

तस्य महालाभाःसन्ति |

कालस्य मात्रा क्षणात् 

पर्यान्तंं स्वल्पनिमेषान् भवेत् |

आवर्तनं शून्यं भवेत् |

मणिबन्धौ बाहू कटी जानू गुल्फौ वितन्यन्ते |

बाहू पृष्ठम् उदरकेन्द्रियाणि वर्धयन्ते |

चक्रं मणिपूरःभवति ||