एकदा यदा अध्यापकः नवतरःआसीत् सः स्वपित्रा सह तीर्थं गतवान् | तौ अटतःस्म | तीर्थाय मार्गे बहुलिङ्गानि प्रस्थितानि आसन् | अतःयावद् तौ अटतःस्म बालकःकुक्कुरं दृष्टवान् कुक्कुरःलिङ्गानाम् एकस्मिन् अवमेढुम् आरभते स्म | सःकुक्कुरे संक्रोशति हा हा विगच्छ विगच्छ हा हा इति तस्य पिता अवदत् हे पुत्र! किमर्थम् भवान् कुक्कुरं निन्दति इति | आहो तात! भवान् कुक्कुरं न पश्यति स्म वा | सः लिङ्गे अवमेढुम् इच्छति स्म लिङ्गं च ईश्वरः अस्ति इति बालकस्य उत्तरम् आसीत् | तस्य पिता प्रतिवदति स्म अस्तु अस्तु साधु यद् तेन क्रियेत तत् असाधु भवेत् इति उभौ तीर्थाय स्वमार्गे अनुवर्तेते | अथ कदाचित् बालकःअवदत् हे तात अहं अवमेढुम् इच्छामि कृपया तिष्ठतु तिष्ठतु इति पिता आम् आम् अस्तु परंतु भवान् अवमेहतु यत्र ईश्वरःन वर्तते इति | बालकः सम्भ्रमेण स्वपितरि अवलोकयति स्म सः च प्रतिवदति स्म किम् इति तस्य पिता अवदत् भवान् कुक्कुरं निन्दति स्म यतोहि सःलिङ्गे अवमेढुम् इच्छति स्म भवान् च अवदत् लिङ्गम् ईश्वरः अस्ति अतःगच्छतु किन्तु अवमेहतु यत्र ईश्वरःन तु अस्ति | बालकः प्रतिवदति स्म किन्तु ईश्वरःसर्वत्र इति सम्यक् तत् च कुक्कुरस्य स्वरूपकम् आसीत् अधुना भवान् जानाति | गच्छतु ||
Tuesday, December 29, 2020
Monday, December 14, 2020
Circles
सूर्यनमस्कारस्य अभ्यासे
वयं मूलाधारचक्रेण विना शरीरस्य
सर्वाणि चक्राणि सम्मृशामः |
एतत् कुण्डलिन्याःसमुद्बोधनाय
योजने सर्वेषां चक्राणां वृद्धिं करोति इति स्वामी उक्तवान् ||
Sunday, November 29, 2020
Language of the Gods
संस्कृतभाषा देवभाषा बहुभिः कथ्यते
अनाहतचक्रागच्छत्नादा प्रथिष्ठव्याकरणा
इयमपि गीर्वाणभाषा कैश्चित् कथ्यते |
ऋषिपाणिनिसंरक्षितशब्दा वेदसुयुक्तस्वरा
यतोहि इयं देवबहुरूपाणि विरचयितुम्
सिद्धमहोपासकैर् अनुत्तमम् उपायुज्यत
यौगिकसिद्धतद्दत्तसाधनैर् अद्यपूजितमूर्तीनि ||
Saturday, November 14, 2020
Madman rants
हिब्रूभाषा उच्यते नवदशलक्षजनैः |
सामान्येन एकं मतं तैःजनैःआचरितम् अस्ति|
परंतु एकं मतम् सर्वैः भारतीयजनैः न अनुगम्यते ||
बहूनि मतानि अनुगम्यन्ते
अथ एका भाषा संस्कृतभाषा एव सुलभा न |
हिब्रूभाषा अल्पदशलक्षजनैः उच्यते
इयं स्वयं मध्ये उच्यते कुत्रचित् ते वर्तन्ते
तस्मिन् परिसरे स्थानीयभाषा उच्यते |
अथ अमेरिकादेशे गृहे हिब्रूभाषा उच्यते
किन्तु बहिस् अङ्गलभाषा उच्यते कदाचित्
अरबीभाषा अपि |
संस्कृतभाषा देवभाषा अस्ति इति वदन्ति
ते न वदन्ति भाषा जनभाषा अस्ति इति
तमिळ्भाषा जनभाषा अस्ति |
एवेमेव गूगुलः न संस्कृतभाषाम् अनुवदति यतोहि भाषा स्वल्पजनैः उच्यते
बहवःभारतीयजनाःगूगुले कर्म कुर्वन्ति ||
भाषा भारतीयजनैःसन्धारयेत् |
पर्याप्तम् तन्त्रज्ञानं प्रौद्योगिकी वा तत् कर्तुंवर्तेते |
संस्कृताध्यापकाः संस्कृताछात्राः बहवःजालतन्त्रज्ञाःइष्यन्ताम्
चापि लभ्यन्ताम् |
भाषापि संस्कृतपण्डितैः अधुनिकीक्रियते |
नूतनशब्दाः निर्ह्रासाः वा क्रियन्ताम्
उदाहरणाणि कानिचित् GPS, Styrotex,LED, इत्यादीनि
अधुनिकराष्ट्रीयग्रन्थालयाःसर्वे भाषां पाठयति |
वैदिकशास्त्रीयव्याभाषितभाषाणाम् भेदाः ज्ञायन्ताम् अवगम्यन्तां च | के वैदिकभाषाम् वदन्ति | भवनतःजानान्ति वा ||
हिब्रूविषयाः भारतीयविषयाःइव न समानाः सन्ति |
भारतं निखर्वैःअन्यभिन्नदेशीयजनैः
बहुजनैः बहुमतैः बहुभाषाभिःमहाद्वीपम् अस्ति ||
इस्रेलदेशः एकमतैःस्वल्पद्वीपम् अस्ति यस्मिन् तर्हि विषयः सरलः भवति ||
दोषाःक्षम्यन्ताम्
जयतु संस्कृतम्
Secret Followers
विद्याराज्ञी-दक्षिणकाल्याः एतत् पुरातन-ध्यानचित्रम् अस्ति |
इदं तस्याः रूपं शक्तिष्ठम् एव अस्ति तस्मिन् इदमेव मृत्योःभयात् उपसाकं मोक्तुं यमदेवं भाययति | अथ तत् नाम | तस्मैरूपाय विधिः वीरचर्या नितराम् अस्त्ति अयं च गृ हस्थोपसाकाय न अस्ति |
अद्यरात्रौ महानिशा वर्तते ||
एतत् चित्रम् ध्यानश्लोकम् इव चित्रलिखितम् अस्ति |
दक्षिणकाली स्वभैरवे विपरीतके अस्ति यः महाकालः अस्ति |
तौ उभौ सादाशिव-प्रेतासनम् आतिष्ठतः | सम्पूर्णरूपं शृगालैः आवृतम् श्मशाने चित्रलिखितम् अस्ति | चित्रस्य वर्णनम् शाक्ततत्त्वविद्यायाः अस्ति ||
Sunday, November 8, 2020
It is not Meditative Aerobics
सूर्यनमस्कारःप्रत्यहम् क्रियेत | अयम् सम्यङ् अभ्यासोsतीव अस्ति | अयम् अभ्यासःसप्ताहस्य त्रिदिनेषु अवरार्धम् क्रियेत | अथचेत् अपि द्विस् क्रियते | अयं समीचीनतरोsधिकं भवति ||
ये योगस्य रहस्य-दृशीकायै अनुकृष्टाः सन्ति | कानिचित् उदाहरणानि चक्राणि मन्त्रा नाड्य इत्यादि | सूर्यनमस्कारस्य अभ्यासे मणिपूरचक्रं प्रोत्साहितम् भवति ||
अन्यानि चक्राणि अभ्यासेन प्रोत्साहितानि भवन्ति | परंतु इदं विशिष्टं चक्रं प्रोत्साहितं गाढम् अस्ति ||
सूर्यसाधनम्
इदमपि अतीवसाधु | रविदिने उपवासः क्रियेत यदि पूर्णोपवासो न शक्यः तर्हि कानिचित् फलानि खादितव्यानि | सूर्यनमस्कारस्य पूर्ण-द्वादशचक्राणि भक्त्यासूर्यमन्त्रैश्च क्रियेरन् एतानि पूर्णद्वादशचक्राणि सूर्यस्य द्वादश्नामभिः प्रातमध्यन्दिनसायङ्कालेषु क्रियेरन् |
अष्टोत्तरशतनामानि
यदि कश्चित् इच्छति तर्हि सूर्यजपःक्रियेत सूर्यहोमे वा तस्य 108-नामानि उद्गीयेरन् | तस्मिन् दिने भवदीयशरीरम् उपतप्यते तेजोsपि भावितम् अस्ति | भवदीयत्वक् चकास्ति | ओजःप्रत्यागच्छति ||
यदिच सूर्य इच्छति |
स्वसुवर्णरश्मिषुयोगिनःस्नीयात् सःखगनामः | मानुष्यकाधारेषु भाऋजीकःसर्वमित्रः अन्यदेवपूर्वकृततद्नमस्कृतीन् वह्नितमः|दीपको रावणर्युद्धरघुपतिसमुक्षितसूक्तो दृढस्युजवचनप्रशंसनःसर्वग्रहज्येष्ठः||
Monday, November 2, 2020
Abundance
लज्जागौरी हिन्दुदेवी योनियन्त्रा
पद्मशीर्षा बाहुल्यं फलवत्त्वं
इन्द्रयप्रसङ्गं समन्वितास्ति |
कदाचित् तस्याः नाम अवक्षिप्तम्
लज्जा इति | सा गर्भत्वस्य
बहिरुपाधिना विना प्रसवे मालासने
वा कदाचित् प्रदर्शितास्ति ||
नद्यःप्रावृट् कृषिःयौषिण्यम्
आशीर्वादाःसुताःअन्नमित्यादि
तेषां विषये चिन्तितवान्
यदा ताम् अपश्यम् अहम् ||
Friday, October 30, 2020
You know?
सत्त्वगुणस्य प्रशस्तिःभवति इव एषःगुणःअर्हगुणःकेवलं अस्ति
अतःसम्प्रति हिन्दुधर्मस्य स्थविमत् प्रत्याख्येयम् |
तथा सत्त्वगुणस्य नाम्नि तीव्रदेव्यःश्रीप्रत्यङ्गिरादेवी श्रीकाली श्रीतारादेवी इव इत्यादयः रक्तकुङ्कुमेन मिश्रजलं हरिद्राद्वयं गुडं च बलेः प्रतिक्षेत्रे दातव्याः | अथ देवालयानां तेषु प्रकारेषु देव्याविर्भावःविजर्जरीकर्तव्यः | तर्हि अज्ञजनाः दुःखितेभ्यः स्वविषयेभ्यः ताः तिरस्करिष्यन्ति ||
Heard & Felt the Energy
ॐ श्री गुरवे नमः
मम गुरुःभारतागमितेन अध्यापकादेशेन
हिन्दुस्थानिशास्त्रीयसङ्गीतं पठितः |
अथयदा अहं स्वगुरुं मिलितवान्
सः हिन्दुस्थानिशास्त्रीयसङ्गीतेन गृहीतार्थःपर्याप्तमेव
आसीत् | अतःप्रकृत्या सःसङ्गीतं पठितुं माम् आश्वासितः ||
परंतु तेषु गतसमयेषु सङ्गीतं मे सार्थकं
नासीत् | अहं तु सङ्गीतकक्षाः इतोsपि गतवान् यत्र सःसङ्गीतस्य गुरुत्वविषये पाठितः| अहं संस्कृतभाषया परिमन्त्रितः
एव अभवम् | मम समयः सङ्गीताय न ||
एकस्मिन् गतदिने मम गुरुः देवीपूजां कृतवान् |
सः देवीप्रसादं मे दत्तवान् यदा पूजा समापिता |
तर्हि अहं आपूपिकं खादितुं गृहं शीघ्रं गवतान् |
गृहे अहं आशितासम् च निद्रायामि स्म ||
निद्रायां स्वप्नया अहं काभिःचित् धेनुभिः
स्वगुरुं दृष्टवान् यःअपि कृषिकरः अस्ति |
सः उक्तवान् अहं कस्यैचित् मिलितुं
भवन्तम् इच्छामीति | अहं परावृत्तः अहं तां दृष्टवान् ||
मातङ्गीदेवी
सा किमपि न अवदत् सा केवलम् उपस्मयते स्म |
न शब्दाःप्रार्थिताः आसन् | यतोsहि अहं नूनं ज्ञातवान् |
अहं तस्याः आगच्छन्तीम् अविमितशक्तिम् अतीव अनुभूय
तां प्रणिपातयामि | अहं रोदितुम् आरभे स्म तर्हि अजागरम् ||
वीणाकराम् हरिप्रियशून्यकर्णां कदम्बपुष्पमालां
पाण्डुजलेजातमालाम् इन्दुशेखरां कृष्णदीर्घकेशां
चार्वदनमन्दहासप्रतिहर्षां सत्यमद्वन्नेत्रां मनोहरां
आकर्षकमण्डलमुखाल्पस्वेदनत्वां शिष्यकृपाकरां
अतःपरं मातङ्गीदेवींसर्वदा संवन्देऽहं नम्रःप्रह्वीभूतश्च
Similar
श्रीकाली श्रीतारा च रूपे समाने स्तः |
ते जडशवरूपे उत्तानशयशिवे तिष्ठन्त्यौ
इव वर्णयतः | यावत् तु श्रीकाली वर्णे कृष्णा वर्णयति |
श्रीतारा नीला वर्णयति | उभे अल्पवस्त्राणि धारयतः |
किन्तु श्रीतारा व्याघ्रत्वचः उपकॢप्तां दशां धारयति
यावत् श्रीकाली नराणां प्रविघटितबाहुभ्यः
उपकॢप्तां काञ्चीं धारयति | उभे कर्पराणां मालां धारयतः |
तयोः लला जिह्वा स्वमुखतःद्रवता रक्तेन वर्तते |
तयोः रूपे अतीवसमाने स्तः येन एका अन्यस्यै भ्रमीभवेत् ||
श्रीमाँतारा शिवे प्रत्यालीढासने तिष्ठन्ती वर्तते
श्मशानावासा कर्मन्नश्त्वक्परिपुटना कृपाकरा |
हुङ्कारशब्दबीजा तान्त्रिकार्चितचरणा मातृका
हलाहलपातृपुष्टा मोक्षसांसारिकपरस्भक्तवितरणा ||
जय श्रीतारे
Friday, September 18, 2020
Papa Niza
सः मोरुगा-ग्रामे आजायत | सः ओरिषा-नेता भिषजः चापि आसीत् | सः प्रसिद्धः नाम्ना आसीत् "पप निज़" इति | सः अवदत् अहं यातुधानानान् विभेत्तुम् भिषज्यितुं च विशेषशक्तिं अलभे | सः ओरिषाधर्मस्य महानेता महानाथः वा आद्रियते स्म ||
Samuel Ebenezer Elliot
1901 - 1969
Saturday, August 8, 2020
My Translation
देवराजसेव्यमानपावनांघ्रिपङ्कजं
व्यालयज्ञसूत्रमिन्दुशेखरं कृपाकरम् ।
नारदादियोगिवृन्दवन्दितं दिगंबरं
काशिकापुराधिनाथकालभैरवं भजे ॥१॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति | यः दिगम्बरः अस्ति | यः नारदेन योगिभिः वृन्दैः वन्दितः आदयः ||
यः कृपाकरः अस्ति | यस्य शेखरः इन्दुः अस्ति | यस्य यज्ञसूत्रं व्यालः अस्ति | यस्य पावनौ पङ्कज-अङ्घ्री देवानाम् राजेन सेव्यमानौ स्तः ||
I worship Kalabhairava who is the supreme lord of the city of Kashi , who is sky clothed (naked or clothed with all directions ) who is praise enthusiastically by the multitude of singers and musians, Narada Muni Yogis etc. Who is extremely compassionate. Whose crown is the Moon,whose yajnopavita ( janeu scared thread ) is a snake, whose holy lotus feet is being served by the King of the Gods ( Indra)
भानुकोटिभास्वरं भवाब्धितारकं परं
नीलकण्ठमीप्सितार्थदायकं त्रिलोचनम् ।
कालकालमंबुजाक्षमक्षशूलमक्षरं
काशिकापुराधिनाथकालभैरवं भजे ॥२॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
यः अक्षरः अस्ति | अक्षे यस्य शूलः वर्तते | यस्य अक्षाणि इव अम्बुजाः सन्ति | कालस्य यस्य कालः अस्ति ||
यः त्रिलोचनः अस्ति | यः ईप्सितानाम् अर्थस्य च दायकः अस्ति |
यस्य कण्ठः नीलः अस्ति | यः परः अस्ति | यः भवस्य अब्धिं तारकः अस्ति | यः कोटिभानूनां भास्वरः अस्ति ||
i worship Kalabhairava who is the supreme lord of the city of Kashi , who is imperishable, whose pointed weapon is on the Axis ( terrestrial latitude or the three worlds ) whose eyes are like lotuses, whose end time is of death ( immortal) who is three eyed, who is the bestower of wealth and desires, whose throat is blue, who is the supreme, who enables to carry us over the sea of material existence, and whose brilliance is like ten million Suns.
शूलटङ्कपाशदण्डपाणिमादिकारणं
श्यामकायमादिदेवमक्षरं निरामयम् ।
भीमविक्रमं प्रभुं विचित्रताण्डवप्रियं
काशिकापुराधिनाथकालभैरवं भजे ॥३॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
यः विचित्रस्य ताण्डवस्य प्रियःअस्ति | यः प्रभुः अस्ति | यः भीमविक्रमः अस्ति | यः निरामयः अस्ति | यः अक्षरः अस्ति |
यःआदिदेवः अस्ति | यस्य कायः श्यामः अस्ति | यस्य कारणं आदौ वर्तते | यस्य पाणिषु शूलः टङ्कः पाशः दण्डः च वर्तन्ते ||
i worship Kalabhairava who is the supreme lord of the city of Kashi, who is beloved of the strange frantic dance ( tANDava) , who is extremely powerful, who is of terrific prowess, who is free from illness, who is imperishable, who is the first heavanly divine being, whose body is dark blue, and in whose hands the there is the Trident, a hatchet, a noose and a club.
भुक्तिमुक्तिदायकं प्रशस्तचारुविग्रहं
भक्तवत्सलं स्थितं समस्तलोकविग्रहम् ।
विनिक्वणन्मनोज्ञहेमकिङ्किणीलसत्कटिं
काशिकापुराधिनाथकालभैरवं भजे ॥४॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
यस्य कटौ मनोज्ञाभिःवि-निवणन्तीभिः
किङ्किण्यःलसन्त्यःहेमानि सन्ति | लोकानां यस्य विग्रहः समस्तः अस्ति | यः स्थितः अस्ति | यः स्वभक्तान् वत्सलः अस्ति |
यस्य विग्रहः चारुः प्रशस्तः अस्ति | यः भुक्तेः मुक्तेः च दायकः अस्ति ||
i worship Kalabhairava who is the supreme lord of the city of Kashi, on whose hip there are small shinning gold bells with a pleasing tinkering sound, whose form of all worlds are combined as one, who is standing firm ( in battle), who is affectionate to his own devotees, whose form is pleasing and auspicious, and who is the bestower of worldly pleasures and liberation ( from the cycle of birth and death) .
धर्मसेतुपालकं त्वधर्ममार्गनाशकं
कर्मपाशमोचकं सुशर्मदायकं विभुम् ।
स्वर्णवर्णशेषपाशशोभिताङ्गमण्डलं
काशिकापुराधिनाथकालभैरवं भजे ॥५॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
शोभितानाम् अङ्गानां यस्य मण्डलम् स्वर्णवर्णै शेषैः पाशं भवति |
यः विभुः | यः सुशर्मणः दायकः अस्ति | यः कर्मणां पाशान् मोचकः अस्ति | यः तु अधर्मस्य मार्गाणां नाशकः अस्ति | यः धर्मस्य सेतूनां पालकः अस्ति||
i worship Kalabhairava who is the supreme lord of the city of Kashi, whose circular beautiful limbs are tied with golden colored snakes, who is omnipotent, who is the bestower of good protection, who liberates the ties of karmas (actions) but who is the destroyer of the paths of adharma ( unrighteousness) and who is the protector of the established institutions of Dharma ( righteousness )
रत्नपादुकाप्रभाभिरामपादयुग्मकं
नित्यमद्वितीयमिष्टदैवतं निरंजनम् ।
मृत्युदर्पनाशनं करालदंष्ट्रमोक्षणं
काशिकापुराधिनाथकालभैरवं भजे ॥६॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
यस्य मोक्षणं करालैः दंष्ट्रैःअस्ति | यः मृत्योः दर्पं नाशनः भवति |
यः निरंजनः अस्ति | यः नित्यः अद्वितीयः इष्टः दैवतः अस्ति | पादयोः यस्य युग्मकं रत्नैः पादुकाभ्याम् प्रभाभ्याम् अभिरामम् अस्ति ||
i worship Kalabhairava who is the supreme lord of the city of Kashi, whose pair of feet are pleasing with both shining Sandals with jewels, who is the desired God second to none and eternal, who is pure, who is the destroys the arrogance of death, whose liberation with his large fangs are formidable, ( fangs remove the fear of death) .
अट्टहासभिन्नपद्मजाण्डकोशसंततिं
दृष्टिपातनष्टपापजालमुग्रशासनम् ।
अष्टसिद्धिदायकं कपालमालिकाधरं
काशिकापुराधिनाथकालभैरवं भजे ॥७॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
यः कपालानां मालिकायाः धरं करोति | यः अष्ट-सिद्धेः दायकः अस्ति | पापानां जालस्य यस्य उग्रं शासनं दृष्टेः पातेन नष्टम्
अस्ति | पद्मजाण्डस्य ( ब्रह्माण्ड) कोशस्य यस्य संततिः तस्य अट्टेन हासेन भिन्ना अस्ति ||
i worship Kalabhairava who is the supreme lord of the city of Kashi, whose expanse of the sheath of Brahma's egg ( the mundane world) is shattered by his loud laughter, whose mighty rule is the net of sins is destroyed with the cast of a glance , who is the bestower of the eight spiritual powers , and who wears a garland of skulls.
भूतसंघनायकं विशालकीर्तिदायकं
काशिवासलोकपुण्यपापशोधकं विभुम् ।
नीतिमार्गकोविदं पुरातनं जगत्पतिं
काशिकापुराधिनाथकालभैरवं भजे ॥८॥
अहं कालभैरवं भजे | यःकाशिका-पुरस्य अधिनाथःअस्ति |
सः यः जगतः पतिः अस्ति | यः पुरातनः अस्ति |यः नीतेः मार्गे कोविदः अस्ति | यः विभुः अस्ति | यः काशौ सर्वेषु लोकेषु पुण्यानां पापानां च शोधकः अस्ति ये काशौ वसन्ति | यः किशालायाः कीर्देः दायकःअस्ति | यः भूतानां संघानां नायकः अस्ति ||
i worship Kalabhairava who is the supreme lord of the city of Kashi, he who is the lord of the universe, who is ancient, who is skilled on the path of wise moral conduct , who is the supreme ruler, who is purifier of merits and sins of those who reside in the city of Kashi, who bestows eminent fame and who is the leader of multitudes of Ghosts.
कालभैरवाष्टकं पठंति ये मनोहरं
ज्ञानमुक्तिसाधनं विचित्रपुण्यवर्धनम् ।
शोकमोहदैन्यलोभकोपतापनाशनं
प्रयान्ति कालभैरवांघ्रिसन्निधिं नरा ध्रुवम् ॥९॥
ये कालभैरवं मनोहरम् पठन्ति | यद् ज्ञानस्य मुक्तेः च साधनम् करोति | यद् विचित्रस्य पुण्यस्य वर्धनम् करोति | यद् शोकस्य मोहस्य दैन्यस्य लोभस्य कोपस्य तापस्य च नाशनं करोति | नराः कालभैरवस्य अङ्घ्रौ संनिधौ ध्रुवं प्रयान्ति ||
Those who recite the fascinating Kalabhairava Astakam, which leads to the goal of liberation and knowledge, which increases various merits which destroys mental affliction, anger confusion,depression, delusions and sorrows. Those people certainly advance towards the vicinity at the feet of Lord Kalabhairava.
Thursday, June 25, 2020
Salutations to the Teachers
Wednesday, February 26, 2020
Ash Wednesday
अद्य ख्रीष्टीयजना आससौम्यवारं परिवन्दन्ते |
सर्वे तेऽस्मिन् दिनेक्रैस्तवदेवालयंगमिष्यन्ति | ते चभस्म स्वललाटेषु संयोक्ष्यन्ति | ते च स्वमूर्खत्वाय महोपेक्षाम् अर्थयिष्यन्ति | मा पृच्छन्तु किमर्थमिति यतोहि न जानामि | मम आशङ्का भस्मनांविषयेऽस्ति |
कुतोधोरण्या आग्ता || इदं कुतूहलम् अतीव वर्तते यस्मिन् आससौम्यवारो महाशिवरात्रेः समये सर्वतं सदा आगच्छति | सहस्रवर्षेभ्यश्च पूर्वमेव
हिन्दवःस्वललाटेषु भस्म सदा समयुञ्जन् | सर्वे जानीमः हिन्दवो भस्म उपयुञ्जन्ति विशेषतो वा माहेश्वरतायाम् इदम् उपयुञ्जति इदं चतेभ्यः पुण्यम् अस्ति इति ||
ज्ञातुमिच्छामि यद्येते ख्रीष्टीयजनास् तस्य इतिहासं जानन्ति कुत्र च कदा वा धोरणिरुद्भवति स्म इति |
परंतु तथापि ते स्वललाटेषु भस्मना हिन्दून्
पक्ष्यन्ति तेषां च भाष्याणि साधूनि नैव वर्तन्ते ||
Saturday, February 22, 2020
Player
विचिन्तनं स्वच्छन्दं क्रियताम् ||
चतुरङ्गस्यक्रीडकीभव|
मा चतुरङ्गखण्डकीभूयस्व ||
"The crowd must be avoided, thinking must be done independently. You must be a chess player, you ought not to be a chess piece."
Monday, February 17, 2020
Hilo
स शून्य एकश्च वर्तते ||
शिवःसंजीवाजीवयोःपूर्णबोधोऽस्ति |
सौभाग्यवत्तापरायणःसोऽनुग्राहीसुकृती च |
स भारतीयदेवःकेवलमस्ति यस्य अखिलमासः
श्रावणस्तस्मा अनुजुषते ||
"शम्भो नमोsस्तु ते"
Thursday, February 13, 2020
Manifest
इति मम गुरुरुक्तवान् ||
https://youtu.be/Dmlgxge2cvs