Tuesday, February 22, 2022

Oh! Fudge

 

नारिकेलमधुजा
अंशाः
नवनारिकेलदुग्धस्य चषकौ
नवनीतस्य घृतस्य वा दर्वी
सङ्घनितक्षीरस्य चषकः
कपिशर्करस्य चषकौ
लवणस्य सर्धलघुदर्वी इति भवन्ति

यदि एते उपस्कराः इष्यन्ते
कोशफलचूर्णं चोचचूर्णं एलाचूर्णम् इत्यादयः ते उपयुज्येरन्
किन्तु ते मया न उपयुज्यन्ते यतोहि नारिकेलस्य
स्वादःअधिकम् इष्यते |

माध्यमोष्णतायां पात्रे नारिकेलदुग्धं स्थाप्यते
शर्करेण सह संघनितक्षीरेण च अन्तिकं
सर्वे अंशाः क्वथ्यन्ते | एतत् मिश्रणं प्रतिकलम् 
वेपताम् अन्तिकं शर्करः अनुविलीयते | अस्मिन्
समये लवणं नारिकेलस्य काभिश्चित् अपच्छिद्भिः
समीरिते श्रापिणि मिश्रणे अन्तर्संस्पृश्यते |

यदामिश्रणतःसर्वं रसं पात्रतःनिर्गच्छति  मिश्रणं यद्
अधिकं घनीभूतम् भवति तदा नवनीतम् घृतं वा मिश्रणे
स्थाप्यते यावत् इदम् इतोपि प्रतिकलं वेपताम् |

यदा  नु मिश्रणम् पात्रस्य अन्तःआश्लेष्टुम् आरभते |
पात्रं अग्नितः अपाक्रियते मिश्रणं च शीतलीभवितुं चिपिटीकृतस्थाले स्थाप्यते इदं च स्थालं इव चिपिटीकृतं
क्रियते | पूर्वं नु चिपिटीकृतमिश्रणम् पाकशालायाः
तापमानं भवति इदं चतुरश्रभागेषु अन्तर्छिद्यते ||

तर्हि एते चतुरश्रभागाः खाद्यन्ते




No comments:

Post a Comment