नारिकेलमधुजा
अंशाः
नवनारिकेलदुग्धस्य चषकौ
नवनीतस्य घृतस्य वा दर्वी
सङ्घनितक्षीरस्य चषकः
कपिशर्करस्य चषकौ
लवणस्य सर्धलघुदर्वी इति भवन्ति
यदि एते उपस्कराः इष्यन्ते
कोशफलचूर्णं चोचचूर्णं एलाचूर्णम् इत्यादयः ते उपयुज्येरन्
किन्तु ते मया न उपयुज्यन्ते यतोहि नारिकेलस्य
स्वादःअधिकम् इष्यते |
माध्यमोष्णतायां पात्रे नारिकेलदुग्धं स्थाप्यते
शर्करेण सह संघनितक्षीरेण च अन्तिकं
सर्वे अंशाः क्वथ्यन्ते | एतत् मिश्रणं प्रतिकलम्
वेपताम् अन्तिकं शर्करः अनुविलीयते | अस्मिन्
समये लवणं नारिकेलस्य काभिश्चित् अपच्छिद्भिः
समीरिते श्रापिणि मिश्रणे अन्तर्संस्पृश्यते |
यदामिश्रणतःसर्वं रसं पात्रतःनिर्गच्छति मिश्रणं यद्
अधिकं घनीभूतम् भवति तदा नवनीतम् घृतं वा मिश्रणे
स्थाप्यते यावत् इदम् इतोपि प्रतिकलं वेपताम् |
यदा नु मिश्रणम् पात्रस्य अन्तःआश्लेष्टुम् आरभते |
पात्रं अग्नितः अपाक्रियते मिश्रणं च शीतलीभवितुं चिपिटीकृतस्थाले स्थाप्यते इदं च स्थालं इव चिपिटीकृतं
क्रियते | पूर्वं नु चिपिटीकृतमिश्रणम् पाकशालायाः
तापमानं भवति इदं चतुरश्रभागेषु अन्तर्छिद्यते ||
तर्हि एते चतुरश्रभागाः खाद्यन्ते