Sunday, April 23, 2017

Does God Exist ?

शिक्षकः छात्राणां कक्षाम् अपृच्छत् 
"यूयम्  ईश्वरं दृष्टुं शक्नुथ वा न" इति ।

छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।

तर्हि शिक्षकोsपृच्छत् "युयम् ईश्वरं स्पर्ष्टुं
श्क्नुथ वा न" इति ।

छात्राःप्रतिजल्पन्ति स्म "नहि नहि"इति ।

 अतःशिक्षकोsवदत्"तर्हि ईश्वरो न वर्तते" इति ।

एकः छात्रः सहसापृच्छत् "अयि! श्रीमन् ! भवान् स्वमस्तिष्कं दृष्टुं शक्नोति वा न" इति ।

शिक्षकः प्रतिजल्पति स्म‌ "नहि" इति ।

समानछात्रोsपृच्छत् "भवान् स्वमस्तिष्कं स्पर्ष्टुं शक्नोति वा न" इति ।

शिक्षकः पुनः प्रतिजल्पति स्म "नहि नहि" इति 🌶😡 । 

तर्हि छात्रोsवदत् "तथा भवतः मस्तिष्कं न वर्तते" इति । 😜

No comments:

Post a Comment