प्रतिप्रभातं शिवपूजा मया क्रियते |
तथा पूजायै बिल्वपत्राणि उपयुज्यन्ते |
यत्र वसामि, बिल्ववृक्षो नास्ति |
स्वगृहस्य समीपे वृक्षो वर्तते |
यत्र वृक्षोsस्ति, महिला अस्थीयत |
तस्या अयं वृक्ष इति केनचिदकथ्यत ||
नमस्काराः भवति ! भवत्याः बिल्ववृक्षात्
पत्राणि मया लभ्यन्तां कृपया इत्यपृच्छम् |
आम् खलु भवते तानि लप्स्य इति प्रत्यवक् |
तां नचिरम् प्रत्यैक्षेsहम् |
किन्तु सा पत्राणि विना प्रत्यागच्छत् |
महोदय ! अद्य प्रभाते वैष्किरभोजनम् अखादम् |
तथा नाहं पत्राणि ग्रहीतुम् शक्नोमि |
भवान् तानि गृह्णीयात् इति सावदत् ||
सा व्याख्याति स्म जना वृक्षं न स्पृशन्तु
यदि ते मांसम् अखादन् |
तर्हि अधर्मा लभ्यन्ते |
ते पुण्यवृक्षाः सन्तीति |
तस्या व्याख्या मे नूतना आसीत् किन्तु
अहं तां वृक्षम् च अभ्यानन्द्य स्वहस्तयोः कैश्चित्पत्रैः अत्यजम् ||
No comments:
Post a Comment