मम ताम्रकंसको जलाय वर्तते |
जलं तस्मिन् अन्तर् मया स्थाप्यते |
निशोषितजलं च प्रातःकाले पीयते |
किन्तु ताम्रकंसकोऽनिर्मलः सदा भवति |
तथा तं मार्जयितुम्किमपीच्छामि |
"ब्रस्सो" इति इदं क्रीतम् |
अनेकसमयेष्विदं प्रायुज्यत किन्तु तस्य फलं न मे रोचते |
अहं वृद्धमहिलाम् अपृच्छम् किं ताम्रकं मार्जयितुं मया प्रयुज्येत इति |
तस्या उत्तरम् आसीत् रक्तफलरसः प्रयुज्येत इति |
रक्तफलरसो लब्धः |
कंसकः तेन अमार्ज्यत |
मार्जनस्य फलं उत्कृष्टम् अतीव आसीत् |
अधुना मम ताम्रकंसकः शोभनोSस्ति ||
No comments:
Post a Comment