Friday, April 3, 2015
Corrections
तस्या उक्तवानहम् भवती श्वः मया द्रक्ष्यत इति | अन्यो छात्रो मह्यम् इदम् उत्तरं दत्तवान् भवतः वाक्यम् असम्यक् अस्ति इति | मम उत्तरम् आसीत् कथम् मम वाक्यम् असम्यगस्ति इति | स उक्तवान् इदं भवेत् अहं श्वःभवतीम् द्रक्ष्यामि इति| मम मनसि विचार आसीत् तस्य वाक्यं कर्तृवाच्यम् एवमेव अस्ति इति | अतोऽहम् उक्तवान् तयोः वाक्ययोः समानार्थोsस्ति इति | स उत्तरं दत्तवान् परन्तु भाषायाम् वयं तादृक्षं किमपि न वदामः इति | मया सः न व्यौद्यत | यस्मात् सः भाषाम् वक्तुं शक्नोति | अहं च भाषायाः विषये वैयाकरणविवादानाम् श्रान्त आसम् | अनन्तरम् अहं उक्तवान् भवतु भवतु ! भवति ! अहं श्वःभवतीम् द्रक्ष्यामि इति | तर्हि सोक्तवती अस्तु अस्तु इति | यदा सः छात्रः निरगच्छत् तदा सा प्रत्यागच्छत् | सा अपि च उक्तवती भवान् चिन्ता मास्तु चिन्ता मास्तु | भवदुक्तं सर्वं ज्ञातवती भोः इति | सा अस्मयत | तर्हि सापि शालायाःनिरगच्छत् ||
Subscribe to:
Post Comments (Atom)
No comments:
Post a Comment