Sunday, December 28, 2014

Ghost

अहं कौरा-नद्याः गृहे प्रत्यागत्य निधनक्रियायाःविषये स्वल्प-शब्दान्  लिखेयम् | स्व-संस्कृतशिक्षकस्य भ्राता गतसप्ताहे अतिगमति स्म | मम शिक्षकः मां  पृच्छति स्म भवान् नद्याम् क्षौर-कल्पं गन्तुं शक्नोति इति | अत आवाम्  अद्य प्रभाते इमं क्षौर-कल्पं दृष्टुं कैश्चित् मित्रैः सह नदीम्  गतवन्तौ |नद्याम् पुरोहितःबहून् मन्त्रान् उद्गीतवान् किन्तु यद्यपि अहं संस्कृतछात्रः भवामि तथापि केचित् मन्त्राः मया न अवगताः | प्रतिभाति सः कैश्चित् हिन्दीशब्दैः सह संस्कृतमन्त्रान उद्गीतवान् इति |तत्पुर्वम् प्राथमिकम् अन्त्यकर्म प्रयातस्य गृहे अभूत् | अन्यस् पुरोहितः अन्त्यकर्मणः इमं भागम् अकरोत् | अधुना वृत्तान्तः मह्यम् अनुचितः आसीत् | अतः पृच्छामि स्म किमर्थम् द्वौ पुरोहितौ प्रयातस्य कुटुम्बेन प्रायुज्येताम्? | एकः पुरोहितःप्रयातस्य गृहेण प्रायुज्यत अन्यस् च पुरोहितः अनुनदीम्  अन्यं कल्पम् अकरोत् इति ? | कुटुम्बी उक्तवान् यदा मृत्युःगृहे अवर्तत तदा प्रयातस्य गृहम् मलिनम् भविष्यति | एषः च प्रथमःपुरोहितः यः श्मशाने  गृहे   कल्पान् अकरोत् | सः नद्याम् कल्पान्  कर्तुं न शक्नोति | यस्मात् गृम् प्रेतेन मलिनम् भूयते इति  | तर्हि अहं पृच्छामि स्म तत्र गृहे प्रेतःप्रथमेन अन्त्यकर्मणा न आसीत्  इति ?|  उत्तरं न अलभ्यत ||

                                       

No comments:

Post a Comment