कुष्माण्डः
किण्वरोटिका
सा सर्वैःबीजैः फलत्वचा च सह लेशेषु अन्तर् विपाकं एकं लघुं कुष्माण्डं विशसति स्म | बीजानि त्वक् अखिलफलं इति अत्युष्णजले सर्वे एलाहरिद्राजातिकोशचोचचूर्णैः
सह क्वाथ्यन्ते स्म | सर्वे ते अंशाः क्वथित्वा मिश्रके स्थाप्यन्ते स्म
अथ तस्मात् मिश्रणतः रसम् अवशीतीभवितुं आसीत् |
अन्यस्मिन् पात्रे शुष्कांशाः मिश्र्यन्ते स्म |
समीदा कादम्बरीबीजं शर्करः च इत्यादयः | शर्करस्य तत्स्थाने मधु उपयुज्येत करम्भकं वा समीदया मिश्र्येत | किञ्चित् घृतम् लवणकूर्चं च सर्वेषु शुष्कांशेषु अन्तर् स्थाप्येते स्म |
तहि प्रथममिश्रणं मृदुक्लीतके अन्तर् द्वितीयमिश्रणेन
मिश्र्यते स्म | एकस्मिन् पात्रे नूतनमिश्रणं उष्णकोष्ठे स्थाप्यते स्म इदं च एकहोरायै आर्द्रवस्त्रेण छद्यते स्म | अथ एतत् क्लीतकं द्विगुणपरिमाणम् अभवत् यदा होरा पर्याप्ता आसीत् क्लीतकं पुनः अमिश्र्यतकिन्तु एतस्मिन् समये इदम् अन्यहोरायै आपाकभ्राष्ट्रे अस्थाप्यत |
यदा सा होरा पर्याप्ता आसीत् तदा क्लीतकम् आपाकभ्राष्ट्रे स्थाप्यते स्म तर्हि क्लीतकस्य आपाकभ्राष्ट्रं ३६०-तापमात्रायाम् उत्तप्तापाके अन्तर् स्थाप्यते स्म यावत् इदं सुवर्णश्याववर्णम् अभवत् ||